Showing posts with label NS 6TH D SAN. Show all posts

NCERT Solutions for Class 6 Sanskrit Deepakam | दीपकम् Book Question Answers (Full 15 Chapters)

  ✨ सभी 15 अध्याय | सरल भाषा | शब्दार्थ + प्रश्न-उत्तर | New NCERT Book Based

Class 6 Sanskrit की नई पुस्तक Deepakam (दीपकम् भाग 1) में कुल 15 अध्याय हैं।
यहाँ आपको सभी chapters के सरल, स्पष्ट और exam-oriented NCERT Solutions मिलेंगे।


📘 Deepakam Class 6 – Chapter-wise Solutions


1️⃣ वयं वर्णमालां पठामः

🔗 Class 6 Sanskrit Chapter 1 Question Answer

2️⃣ एषः कः ? एषा का ? एतत् किम् ?

🔗 Class 6 Sanskrit Chapter 2 Question Answer

3️⃣ अहं च त्वं च

🔗 Class 6 Sanskrit Chapter 3 Question Answer

4️⃣ अहं प्रातः उत्तिष्ठामि

🔗 Class 6 Sanskrit Chapter 4 Question Answer

5️⃣ शूराः वयं धीराः वयम्

🔗 Class 6 Sanskrit Chapter 5 Question Answer

6️⃣ सः एव महान् चित्रकारः

🔗 Class 6 Sanskrit Chapter 6 Question Answer

7️⃣ अतिथिदेवो भव

🔗 Class 6 Sanskrit Chapter 7 Question Answer

8️⃣ बुद्धिः सर्वार्थसाधिका

🔗 Class 6 Sanskrit Chapter 8 Question Answer

9️⃣ यो जानाति सः पण्डितः

🔗 Class 6 Sanskrit Chapter 9 Question Answer

🔟 त्वम् आपणं गच्छ

🔗 Class 6 Sanskrit Chapter 10 Question Answer

1️⃣1️⃣ पृथिव्यां त्रीणि रत्नानि

🔗 Class 6 Sanskrit Chapter 11 Question Answer

1️⃣2️⃣ आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः

🔗 Class 6 Sanskrit Chapter 12 Question Answer

1️⃣3️⃣ सङ्ख्यागणना ननु सरला

🔗 Class 6 Sanskrit Chapter 13 Question Answer

1️⃣4️⃣ माधवस्य प्रियम् अङ्गम्

🔗 Class 6 Sanskrit Chapter 14 Question Answer

1️⃣5️⃣ वृक्षाः सत्पुरुषाः इव

🔗 Class 6 Sanskrit Chapter 15 Question Answer


📕 NCERT Class 6 Sanskrit Deepakam PDF with Solutions

✔ सभी अध्यायों के प्रश्न-उत्तर
✔ आसान भाषा और सुंदर व्याख्या
✔ शब्दार्थ + व्याकरण + अभ्यास
✔ परीक्षा की तैयारी के लिए परफेक्ट


⭐ Why Choose Amresh Academy Sanskrit Solutions?

✨ NCERT आधारित
✨ सरल एवं छात्र-अनुकूल व्याख्या
✨ Quick Revision Friendly
✨ CBSE Pattern के अनुसार
✨ Syllabus पूरी तरह Cover


वृक्षाः सत्पुरुषाः इव Class 6 Sanskrit Deepakam Chapter 15 Question Answer | NCERT Solutions

  

NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 15 वृक्षाः सत्पुरुषाः इव

वयम् अभ्यासं कुर्मः

१. पाठे लिखितानि सुभाषितानि सस्वरं पठन्तु, अवगच्छन्तु, लिखन्तु स्मरन्तु च ।

२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।

(क) वृक्षा: स्वयं कुत्र तिष्ठन्ति ?
उत्तरम्:
आतपे

(ख) परोपकाराय का वहन्ति ?
उत्तरम्:
नद्यः

(ग) दशवापीसमः कः भवति ?
उत्तरम्:
हृदः

(घ) सत्पुरुषाः इव के सन्ति?
उत्तरम्:
वृक्षा:

(ङ) अर्थिनः केभ्यः विमुखाः न यान्ति ?
उत्तरम्:
वृक्षेभ्यः महीरुहेभ्यः

(च) वृक्षा: स्वयं कानि न खादन्ति ?
उत्तरम्:
फलानि

NCERT Class 6 Sanskrit Deepakam Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव

३. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
NCERT Class 6 Sanskrit Deepakam Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव 1.1

(क) नद्यः किं न पिबन्ति ?
उत्तरम्:
नद्यः स्वयमेव अम्भः न पिबन्ति ।

(ख) वृक्षाः अस्मभ्यं किं किं यच्छन्ति ?
उत्तरम्:
वृक्षाः अस्मभ्यं पुष्पं फलं, छायां, मूलं वल्कलं, दारूं च यच्छन्ति ।

(ग) इदं शरीरं किमर्थम् अस्ति ?
उत्तरम्:
इदं शरीरं परोपकाराय अस्ति ।

(घ) दशपुत्रसमः कः भवति ?
उत्तरम्:
दशपुत्रसम: द्रुमः भवति ।

(ङ) केषां विभूतयः परोपकाराय भवन्ति ?
उत्तरम्:
सतां विभूतयः परोपकाराय भवन्ति ।

(च) अन्यस्य छायां के कुर्वन्ति ?
उत्तरम्:
अन्यस्य छायां वृक्षाः कुर्वन्ति ।

४. पट्टिकातः उचितानि पदानि चित्वा रिक्तस्थानानि पूरयन्तु ।

NCERT Class 6 Sanskrit Deepakam Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव 2.2

तिष्ठन्ति सुजनस्येव विभूतयः वृक्षा: फलानि दशपुत्रः परोपकाराय

यथा – छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।.

(क) फलान्यपि परार्थाय ………… सत्पुरुषा इव ।
उत्तरम्:
वृक्षा:

(ख) दशह्रदसमः पुत्र ……… समो द्रुमः ।
उत्तरम्:
दशपुत्रः

(ग) ……….. येषां वै विमुखा यान्ति नार्थिनः ।
उत्तरम्:
सुजनस्येव

(घ) ………. इदं शरीरम् ।
उत्तरम्:
परोपकाराय

(ङ) स्वयं न खादन्ति ……… वृक्षाः ।
उत्तरम्:
फलानि

(च) परोपकाराय सतां ……… ।
उत्तरम्:
विभूतयः

५. उदाहरणानुसारम् अधोलिखितेषु वाक्येषु स्थूलाक्षरपदानां विभक्तिं निर्दिशन्तु ।

NCERT Class 6 Sanskrit Deepakam Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव 1.2

यथा – वृक्षाः अन्यस्य कृते छायां कुर्वन्ति । द्वितीया विभक्तिः

(क) वृक्षाः परार्थाय फलानि यच्छन्ति । ………..
उत्तरम्:
फलानि – द्वितीया विभक्ति

(ख) वृक्षाः सत्पुरुषाः इव सन्ति । ……………
उत्तरम्:
सत्पुरुषाः – प्रथमा विभक्ति

(ग) द्रुमः दशसन्तानसमः भवति । …………
उत्तरम्:
द्रुमः – प्रथमा विभक्ति

(घ) वृक्ष: प्राणिभ्यः काष्ठानि यच्छति । ……………
उत्तरम्:
प्राणिभ्यः – चतुर्थी विभक्ति

(ङ) नद्यः जलं स्वयमेव न पिबन्ति । ………..
उत्तरम्:
नद्यः – प्रथमा विभक्ति

(च) सज्जनानां सङ्गतिं करोतु । ……………
उत्तरम्:
सङ्गतिं – द्वितीया विभक्ति

NCERT Class 6 Sanskrit Deepakam Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव

६. अधोलिखितानां पदानां द्विवचने बहुवचने च रूपाणि लिखन्तु ।

NCERT Class 6 Sanskrit Deepakam Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव 1.3

यथा- वृक्षः वृक्षौ वृक्षा:

(क) मेघः ………….. ……………..
(ख) हृदः ………….. ……………..
(ग) सत्पुरुषः ………….. ……………..
(घ) छाया ………….. ……………..
(ङ) वापी ………….. ……………..
(च) नदी ………….. ……………..
(छ) शरीरम् ………….. ……………..
(ज) पुष्पम् ………….. ……………..
उत्तरम्:
NCERT Class 6 Sanskrit Deepakam Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव 1.4
(क) मेघ: मेघौ मेघाः
(ख) हृदः हृदौ हृदा:
(ग) सत्पुरुषः सत्पुरुषौ सल्पुरुषाः
(घ) छाया छाये छाया:
(ङ) वापी वाप्यौ वाप्यः
(च) नदी नद्यौ नद्यः
(छ) शरीरम् शरीरे शरीराणि
(ज) पुष्पम् पुष्पे पुष्पाणि

७. अधोलिखितानां पदानां परस्परं समुचितं मेलनं कृत्वा ‘कः किं ददाति’ इति लिखन्तु ।

NCERT Class 6 Sanskrit Deepakam Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव 1.5
(क) वृक्षः दुग्धम् वृक्षः शुद्धं वायुं ददाति ।
(ख) गौ: प्रकाशं …………………
(ग) सूर्य: विद्यां ……………..
(घ) नदी शुद्धं वायुं ……………
(ङ) अग्निः जलम्ं ………………
(च) शिक्षक: तापं ……………
उत्तरम्:
(क) वृक्षः – वृक्षः शुद्धं वायुं ददाति ।
(ख) गौ: – गौ: दुग्धं ददाति ।
(ग) सूर्य: – सूर्य: प्रकाशं ददाति ।
(घ) नदी – नदी जलं ददाति ।
(ङ) अग्निः – अग्निः तापं ददाति
(च) शिक्षक: – शिक्षक: विद्यां ददाति ।

८. अधोलिखितानां क्रियापदानां लट्लकारे प्रथमपुरुषस्य रूपाणि लिखन्तु ।

NCERT Class 6 Sanskrit Deepakam Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव 1.6

यथा – कुर्वन्ति – करोति कुरुतः कुर्वन्ति
तिष्ठन्ति – …… …….. ………
फलन्ति – …… …….. ………
यान्ति – …… …….. ………
पिबन्ति – …… …….. ………
खादन्ति – …… …….. ………
उत्तरम्:
तिष्ठन्ति – तिष्ठति तिष्ठतः तिष्ठन्ति
फलन्ति – फलति फलतः फलन्ति
यान्ति – याति यातः यान्ति
पिबन्ति – पिबति पिबतः पिबन्ति
खादन्ति – खादति खादतः खादन्ति

योग्यताविस्तारः

१. अधोलिखितां प्रहेलिकां पठित्वा उत्तरं वदन्तु ।

NCERT Class 6 Sanskrit Deepakam Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव 1.7

वृक्षाग्रवासी न च पक्षिराज:
त्रिनेत्रधारी न च शूलपाणिः ।
त्वग्वस्त्रधारी न च सिद्धयोगी
जलं च बिभ्रन्न घटो न मेघः ॥
उत्तरम्:
नारिकेलम्।

परियोजनाकार्यम्

१. विद्यालयं गृहं वा परितः विद्यमानानां पञ्च-पादपानां (वृक्षाणां) संरक्षणं कुर्वन्तु ।
उत्तरम्:
छात्राः स्वयमेव कुरुत ।

२. अन्तर्जालस्य साहाय्येन परोपकारविषये दश- सुभाषितानां संग्रहणं कुर्वन्तु ।
उत्तरम्:
परोपकारविषये सुभाषितानि

1. अष्टादश पुराणेषु व्यासस्य वचनद्वयम् ।
परोपकारः पुण्याय पापाय परपीडनम् ।।

2. परोपकारशून्यस्य धिक् मनुष्यस्य जीवितम् ।
जीवन्तु पशवः येषां चर्माप्युपकरिष्यति ।।

3. आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः ।
परं परोपकारार्थं यो जीवति सः जीवति ।।

4. परोपकरणं येषां जागर्ति हृदये सताम् ।
नश्यन्ति विपदः तेषां सम्पदः स्युः पदे पदे ।।

5. भवन्ति नम्रः तरवः फलोद्गमैः ।
नवाम्बुभिर्दूरविलम्बनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः । स्वभाव एवैष परोपकारिणाम् ।।

6. रत्नाकरः किं कुरुते स्वरत्नैः, विन्ध्याचलः किं करिभिः करोति ।
श्रीखण्डखण्डैर्मलयाचलः किं परोपकाराय सतां विभूतयः ।।

7. ‘परेषाम् उपकारः एव परोपकारः कथ्यते ।

8. ‘स्वार्थम् विहाय अन्येषां हितं क्रियते तदेव परोपकारः ।

9. ‘फलानि अपि परार्थाय वृक्षाः सत्पुरुषाः इव ।’

10. पिबनि नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः ॥

NCERT Class 6 Sanskrit Deepakam Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव

पठित-अवबोधनम्

१. अधोलिखितं श्लोकं पठित्वा प्रश्नानाम् उत्तरत-

परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः ।
परोपकाराय दुहन्ति गावः, परोपकाराय इदं शरीरम् ।।

प्रश्ना:-

I. एकपदेन उत्तरत-

प्रश्न i.
परोपकाराय का : वहन्ति ?
उत्तरम्:
नद्य:

प्रश्न ii.
वृक्षाः किमर्थम् फलन्ति ?
उत्तरम्:
परोपकाराय

प्रश्न iii.
परोपकाराय का : दुहन्ति ?
उत्तरम्:
गाव:

प्रश्न iv.
परोपकाराय के फलन्ति ?
उत्तरम्:
वृक्षा:

II. पूर्णवाक्येन उत्तरत-

(i) इदम् शरीरम् किमर्थम् अस्ति ?
उत्तरम्:
इदम् शरीरम् परोपकाराय अस्ति ।

III. निर्देशानुसारं उत्तरत-

(i) ‘परोपकाराय ‘ इति पदे का विभक्तिः ?
(क) चतुर्थी
(ख) पञ्चमी
(ग) प्रथमा
(घ) तृतीया
उत्तरम्:
(क) चतुर्थी

(ii) ‘फलन्ति’ इत्यत्र किम् वचनम् ?
(क) त्रिवचनम्
(ख) द्विवचनम्
(ग) एकवचनम्
(घ) बहुवचनम्
उत्तरम्:
(घ) बहुवचनम्

२. मञ्जूषातः समुचितं पदं चित्वा श्लोकस्य अन्वयं पूरयत-

छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
फलान्यपि परार्थाय वृक्षाः सत्पूरुषाः इव ।।

मञ्जूषा – सत्पुरुषाः, आतपे, छायाम्, फलानि
NCERT Class 6 Sanskrit Deepakam Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव 1.8

अन्वयः – (वृक्षाः) स्वयम् ……..(i)…….. तिष्ठन्ति, अन्यस्य ……(ii)…… कुर्वन्ति …..(iii)….. अपि परार्थाय, वृक्षा: …….(iv)…… इव (सन्ति) ।
उत्तरम्:
(i) आतपे
(ii) छायां
(iii) फलानि
(iv) सत्पुरुषा:

३. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत-

(i) नद्यः अम्भं स्वयं न पिबन्ति ।
उत्तरम्:
नद्यः किम् स्वयं न पिबन्ति ?

(ii) दशपुत्रसम: द्रुमः भवति ।
उत्तरम्:
दशपुत्रसमः कः भवति ?

(iii) वृक्षाः सत्पुरुषाः इव सन्ति ।
उत्तरम्:
के सत्पुरुषाः इव सन्ति?

(iv) वृक्षा: अन्यस्य छायाम् कुर्वन्ति ।
उत्तरम्:
वृक्षाः कस्य छायाम् कुर्वन्ति ?

(v) वृक्षाः फलानि न खादन्ति ।
उत्तरम्:
वृक्षाः कानि न खादन्ति ?

NCERT Class 6 Sanskrit Deepakam Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव

४. मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

NCERT Class 6 Sanskrit Deepakam Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव 1.9

महीरुहाः, वारिवाहाः, याचकाः, अम्भः, सज्जनाः

(i) मेघाः ………..
(ii) अर्थिनः ………..
(iii) वृक्षा: ……….
(iv) सत्पुरुषा: ……….
(v) जलम् ………..
उत्तरम्:
NCERT Class 6 Sanskrit Deepakam Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव 2.1
(i) मेघाः वारिवाहाः
(ii) अर्थिनः याचकाः
(iii) वृक्षा: महीरुहाः
(iv) सत्पुरुषा: सज्जनाः
(v) जलम् अम्भः

माधवस्य प्रियम् अङ्गम् Class 6 Sanskrit Deepakam Chapter 14 Question Answer | NCERT Solutions

  

NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 14 माधवस्य प्रियम् अङ्गम्

वयम् अभ्यासं कुर्मः

१. चित्रं दृष्ट्वा अङ्गस्य नाम लिखन्तु ।
NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम् 1.1
उत्तरम्:
NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम् 1.2

२. कोष्ठकात् समुचितं क्रियापदं चित्वा उदाहरणानुसारम् अङ्गस्य कार्यं लिखन्तु ।

NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम् 2.1

यथा – नयनं – पश्यति

(क) मुखम् – ………. (चलति, हसति वदति)
उत्तरम्:
मुखम् – वदति

(ख) पादः – ……….. (लिखति, चलति पश्यति)
उत्तरम्:
पादः – चलति

(ग) कर्णः – ……….. (हसति वदति, शृणोति)
उत्तरम्:
कर्णः – शृणोति

(घ) नासिका – ……….. (आघ्राणं करोति, नृत्यति धावति)
उत्तरम्:
नासिका – आघ्राणं करोति

(ङ) जिह्वा – ………… (धावनं करोति, आस्वादनं करोति, पश्यति)
उत्तरम्:
जिह्वा – आस्वादनं करोति

NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम्

३. कोष्ठकात् समुचितां संख्यां चित्वा रिक्तस्थानं पूरयन्तु।

NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम् 2.2

(क) मम …………. शिरः अस्ति । (एकम् अनेकं चत्वारि )
उत्तरम्:
मम एकम् शिरः अस्ति ।

(ख) मम …….. पादौ स्तः । (त्रयः, द्वौ, पञ्च)
उत्तरम्:
मम द्वौ पादौ स्तः ।

(ग) मम ……. केशाः सन्ति । (दश, अष्ट, बहव:)
उत्तरम्:
मम बहवः केशाः सन्ति ।

(घ) मम ……….. दन्ताः सन्ति । (चत्वारः, अष्टाविंशतिः, द्वात्रिंशत् )
उत्तरम्:
मम अष्टाविंशतिः दन्ताः सन्ति ।

(ङ) मम हस्तयोः …….. अङ्गुल्यः सन्ति । (अष्ट, दश, पञ्चदश )
उत्तरम्:
मम हस्तयो: दश अङ्गुल्यः सन्ति ।

४. कोष्ठकात् समुचितं क्रियापदं चित्वा उदाहरणानुसारं शरीराङ्गस्य नाम लिखन्तु ।

NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम् 2.3

यथा- नयनम्। पश्यति

(क) शृणोति – …………। (गुल्फ : चिबुकम् कर्ण:)
उत्तरम्:
शृणोति – कर्णः ।

(ख) धावति – ………..। (पादद्वयम्, हस्तद्वयम्, नयनद्वयम् )
उत्तरम्:
धावति – पादद्वयम् ।

(ग) नमति – ………. । (शिर:, कूर्पर:, जङ्घा)
उत्तरम्:
नमति – शिरः ।

(घ) सूचयति – ………. । (अङ्गुली, नख:, चरण:)
उत्तरम्:
सूचयति – अंगुली ।

(ङ) लिखति – ………… । (हस्त:, मणिबन्ध:, कटि:)
उत्तरम्:
लिखति – हस्तः ।

5. पट्टिकातः शब्दान् चित्वा यथायोग्यं गणेषु लिखन्तु ।
NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम् 1.3
नासिका मणिबन्धः चिबुकम् कूर्पर: हस्त: मणिबन्धः कपोल:
भुजः ललाटम् स्कन्धः जङ्घा नयनम् जानु ऊरु:
उत्तरम्:
NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम् 1.4

६. कोष्ठकात् समुचितं पदं चिन्वा वाक्यानि ‘रचयन्तु।

NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम् 1.5

(क) अहं ………… गायनं करोमि ।
(पादेन, नासिकया, मुखेन)
उत्तरम्:
अहं मुखेन गायनं करोमि ।

(ख) अहं ……….. धावनं करोमि ।
(पादाभ्यां, ललाटेन, कूर्परेण)
उत्तरम्:
अहं पादाभ्यां धावनं करोमि ।

NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम्

(ग) अहं ……….. आघ्राणं करोमि ।
(नखै:, नासिकया, चरणेन)
उत्तरम्:
अहं नासिकया आघ्राणं करोमि ।

(घ) अहं ……….. श्रवणं करोमि ।
(कर्णाभ्याम्, नासिकया, अङ्गुष्ठैः)
उत्तरम्:
अहं कर्णाभ्याम् श्रवणं करोमि ।

(ङ) अहं ………. भोजनं करोमि ।
(मुखेन पादेन, नासिकया)
उत्तरम्:
अहं मुखेन भोजनं करोमि ।

७. पट्टिकातः समुचितं शरीराङ्गं चित्वा भगिनी कुत्र किं धरति इति सूचयन्तु।
NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम् 1.6
कण्ठे ललाटे नयनयोः ओष्ठयोः पादयोः
कर्णयोः हस्तयोः वामहस्ते अङ्गुल्यां नेत्रयोः

भगिनी ……….. पादुकाद्वयं धरति ।
उत्तरम्:
भगिनी पादयोः पादुकाद्वयं धरति ।

भगिनी ………… कङ्कणानि धरति।
उत्तरम्:
भगिनी हस्तयोः कङ्कणानि धरति ।

भगिनी …………. मुद्रिका धरति ।
उत्तरम्:
भगिनी अङगुल्यां मुद्रिकां धरति ।

भगिनी ……….. घटीयन्त्रं धरति ।
उत्तरम्:
भगिनी वामहस्ते घटीयन्त्रं धरति ।

भगिनी ……….. मालां धरति ।
उत्तरम्:
भगिनी कण्ठे मालां धरति ।

भगिनी ………… कुण्डलद्वयं धरति ।
उत्तरम्:
भगिनी कर्णयोः कुण्डलद्वयं धरति ।

भगिनी ……….. उपनेत्रं धरति ।
उत्तरम्:
भगिनी नेत्रयोः उपनेत्रं धरति ।

भगिनी ………. कुङ्कुमं धरति ।
उत्तरम्:
भगिनी ललाटे कुङ्कुमं धरति ।

भगिनी ……… ओष्ठरागं धरति ।
उत्तरम्:
भगिनी ओष्ठयोः ओष्ठरागं धरति ।

भगिनी ……….. कज्जलं धरति ।
उत्तरम्:
भगिनी नयनयोः कज्जलं धरति ।

८. वाक्यं शुद्धम् अशुद्धं वा इति सूचयन्तु

(क) अहं कर्णाभ्यां भोजनं करोमि । (शुद्ध / अशुद्धम् )
उत्तरम्:
अशुद्धम्

(ख) अहं नासिकाद्वारा श्वासं स्वीकरोमि । (शुद्धम् / अशुद्धम्)
उत्तरम्:
शुद्धम्

(ग) अहम् अङ्गुष्ठैः गणनां करोमि । (शुद्धम् / अशुद्धम्)
उत्तरम्:
शुद्धम्

(घ) अहं नयनाभ्यां श्रवणं करोमि । (शुद्धम् / अशुद्धम्)
उत्तरम्:
अशुद्धम्

(ङ) अहं हस्तेन कार्यं करोमि । (शुद्धम् / अशुद्धम्)
उत्तरम्:
शुद्धम्

योग्यताविस्तरः
NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम् 1.7

मधुराष्टकम्

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥१॥
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥२॥
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ||३||
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम्।
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ||४||
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् ।
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥५॥
गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ||६||
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं सृष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥७॥
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मधुराधिपतेखिलं मधुरम् ||८||
श्रीवल्लभाचार्य कृतं मधुराष्टकम्

गतिविधि-कार्यम्

कक्षायां सर्वे छात्राः शिक्षकस्य मार्गदर्शनेन अस्य पाठस्य नाट्याभिनयं कुर्वन्तु ।

परियोजनाकार्यम्|
योग्यताविस्तरभागे विद्यमानं चित्रं स्फोरकपत्रे रचयित्वा अङ्गानां नामानि लिखन्तु ।
उत्तरम्:
छात्राः स्वमेव कुर्वन्तु ।

पठित-अवबोधनम्

I. अवबोधन कार्यम्

१. निम्नलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत-

माधव: विचारयति बोधयति च-
‘मम शरीरस्य सर्वाणि अङ्गानि मम कृते उपकारकाणि सन्ति । अहम् नेत्राभ्याम् पश्यामि, कर्णाभ्याम् शृणोमि मुखेन भाषणं करोमि भोजनं करोमि च, उदरेण पाचनात् शक्तिं प्राप्नोमि पादाभ्याम् च चलामि। अतः भवन्तः सर्वेऽपि श्रेष्ठाः ।

प्रश्ना:-

I. एकपदेन उत्तरत-

(i) माधव: काभ्याम् चलति ?
उत्तरम्:
पादाभ्याम्

(ii) माधव: काभ्याम् पश्यति?
उत्तरम्:
नेत्राभ्याम्

NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम्

(iii) सः उदरेण पाचनात् किं प्राप्नोति ?
उत्तरम्:
शक्तिं

(iv) सर्वाणि अङ्गानि कीदृशनि सन्ति?
उत्तरम्:
उपकारकाणि

II. पूर्णवाक्येन उत्तरत-

(i) माधव: मुखेन किम् – किम् करोति ?
उत्तरम्:
माधव मुखेन भाषणं करोति भोजनं च करोति ।

III. निर्देशानुसारं उत्तरत-

(i) ‘चलामि’ इत्यंत्र कः पुरुषः ?
(क) प्रथम पुरुष:
(ख) मध्यम पुरुष:
(ग) उत्तम पुरुष:
उत्तरम्:
(ग) उत्तम पुरुष:

(ii) ‘अहम्’ नेत्राभ्याम् पश्यामि ।’ अस्मिन् वाक्ये क्रियापदं किम् ?
(क) पश्यामि
(ख) अहम्
(ग) नेत्राभ्याम्
(घ) माधवः
उत्तरम्:
(क) पश्यामि

२. वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(i) माधवः स्वपने स्वशरीरस्य अङ्गानि दृष्टवान्।
उत्तरम्:
माधवः स्वपने कस्य अङ्गानि दृष्टवान् ?

(ii) कर्णः स्मितं कृत्वा कथयति ।
उत्तरम्:
कः स्मितं कृत्वा कथयति ?

(iii) भवन्तः सबलाः भवन्ति ।
उत्तरम्:
के सबलाः भवन्ति ?

(iv) माधव: विचारयति ।
उत्तरम्:
कः विचारयति ?

(v) सः नेत्राभ्याम् पश्यति ।
उत्तरम्:
स: काभ्याम् पश्यति?

३. कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानं पूरयत-

द्वौ पादाभ्याम्, नेत्रेण, मुखेन, एका, नेत्राभ्याम्

(i) मोहन ……………. काणः अस्ति ।
उत्तरम्:
नेत्रेण

(ii) नायक: ……… अन्धः अस्ति ।
उत्तरम्:
नेत्राभ्याम्

(iii) नरस्य ………. कर्णौ स्तः ।
उत्तरम्:
द्वौ

(iv) मुखे …….. नासिका भवति ।
उत्तरम्:
एका

(v) नरः …… जलं पिबति ।
उत्तरम्:
मुखेन

(vi) अहम् …….. चलामि ।
उत्तरम्:
पादाभ्याम्

NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम्

४. पर्यायपदान् समुचितं मेलयत-
NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम् 1.8
उत्तरम्:
NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम् 1.9